संदेश

ॐ ब्रह्मा देवानाम् प्रथमः

 प्रथम मुण्डक प्रथम खण्ड (सम्बन्धभाष्य) ॐ ब्रह्मा देवानाम् प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। अथर्वणे यां प्रवदेत् ब्रह्मविद्याम् सर्वविद्याप्रतिष्ठाम्॥ उपक्रमः अस्याश्च विद्यायाः सम्प्रदायकर्तृपरम्पर्यलक्षणसम्बन्धम् आदौ एव आह स्वयं एव स्तुत्यर्थम्। एवं हि महर्षिः परमपुरुषार्थसाधनत्वेन गुरुणोपदिष्टेन लब्धा विधेति श्रोतृबुद्धिप्रोचनाय विद्यां महतीं करोति। स्तुत्या प्रवर्तितायां हि विद्यायां साधवः प्रवर्तन्ते। प्रयोजनेन तु विद्यायाः ब्रह्मविद्यायाः साध्यसाधनलक्षणसम्बन्धप्रयोजनसम्बन्धम् उत्तरत्र निरूपयन् वक्ष्यति— ‘भिद्यते हृदयग्रन्थिः’ (मु० उ० २।२।८) इत्यादिना, अत्र चापरशब्दवाच्याया मूर्तवेदादिलक्षणायाः विधिप्रतिषेधमात्रपरायाः विद्यायाः संसारकारणविद्यादिदोषनिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा परापरविद्याभेदकरणपूर्वकम्— ‘अविद्यायामन्तरे वर्तमानाः’ (मु०उ० १।२।८) इत्यादिना तथा परमपितिसाधनं सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्रसादलभ्यां ब्रह्मविद्यामाह— ‘परीक्ष्य लोकान्’ (मु०उ० १।२।१२) इत्यादिना। प्रयोजनं चास्याः कृतबुद्ध्वा— ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु०उ० ३।२।९) इति, ‘परा...